शिव षडक्षर स्तोत्रम्

ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः
कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥१॥


नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः
नरा नमंति देवेशं नकाराय नमो नमः ॥२॥


महादेवं महात्मानं महाध्यानं परायणम्
महापापहरं देवं मकाराय नमो नमः ॥३॥


शिवं शांतं जगन्नाथं लोकानुग्रहकारकम्
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४॥


वाहनं वृषभो यस्य वासुकिः कंठभूषणम्
वामे शक्तिधरं देवं वकाराय नमो नमः ॥५॥


यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६॥


षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ
शिवलोकमवाप्नोति शिवेन सह मोदते ॥७॥